Home इतिहास पुराण क्या है ज्ञानवापी और काशी विश्वनाथ का रहस्य ?

क्या है ज्ञानवापी और काशी विश्वनाथ का रहस्य ?

1371

स्कन्दपुराण में महर्षि अगस्त्य के प्रश्न करने पर, कि देवता भी जिसकी प्रशंसा करते हैं, वह ज्ञानवापी क्या है, भगवान् स्कन्द उन्हें बताते हैं कि भगवान् ईशान रुद्र के द्वारा जलाभाव की स्थिति से व्यथित होकर अपने त्रिशूल से ज्ञानवापी का निर्माण करके किये गये सहस्रधारार्चन के फलस्वरूप भगवान् (विश्वनाथ) विश्वेश्वर ने उन्हें तपस्या से सन्तुष्ट होकर वरदान मांगने को कहा था। तब ईशानदेव ने कहा कि यह क्षेत्र आपके नाम से अद्वितीय हो। तब भगवान् विश्वेश्वर ने कहा कि तीनों लोकों में यह सर्वोत्तम शिवतीर्थ होगा। यहाँ मैं स्वयं ज्ञानवापी में जल का स्वरूप धारण करके निवास करूँगा जिसके सेवन से सभी पाप, कष्ट, रोग, अज्ञान आदि का नाश हो जायेगा। साथ ही भगवान् शिव ने गया, कुरुक्षेत्र, पुष्कर आदि तीर्थों की अपेक्षा ज्ञानवापी के जल की विशिष्टता भी बतायी। सम्बन्धित प्रमाण निम्न श्लोकों में विस्तार से देखे जा सकते हैं –

अगस्त्य उवाच
स्कन्द ज्ञानोदतीर्थस्य माहात्म्यं वद साम्प्रतम्।
ज्ञानवापीं प्रशंसन्ति यतः स्वर्गौकसोऽप्यलम्॥

स्कन्द उवाच
घटोद्भव महाप्राज्ञ शृणु पापप्रणोदिनीम्।
ज्ञानवाप्याः समुत्पत्तिं कथ्यमानां मयाधुना॥
अनादिसिद्धे संसारे पुरा देवयुगे मुने।
प्राप्तः कुतश्चिदीशानश्चरन्स्वैरमितस्ततः॥
न वर्षन्ति यदाभ्राणि न प्रावर्तन्त निम्नगाः।
जलाभिलाषो न यदा स्नानपानादि कर्मणि॥
क्षारस्वादूदयोरेव यदासीज्जलदर्शनम्।
पृथिव्यां नरसञ्चारे वर्त्तमाने क्वचित्क्वचित्॥
निर्वाणकमलाक्षेत्रं श्रीमदानन्दकाननम्।
महाश्मशानं सर्वेषां बीजानां परमूषरम्॥
महाशयनसुप्तानां जन्तूनां प्रतिबोधकम्।
संसारसागरावर्तपतज्जन्तुतरण्डकम्॥
यातायातातिसङ्खिन्न जन्तुविश्राममण्डपम्।
अनेकजन्मगुणितकर्मसूत्रच्छिदाक्षुरम्॥
सच्चिदानन्दनिलयं परब्रह्मरसायनम्।
सुखसन्तानजनकं मोक्षसाधनसिद्धिदम्॥
प्रविश्य क्षेत्रमेतत्स ईशानो जटिलस्तदा।
लसत्त्रिशूलविमलरश्मिजालसमाकुलः॥
×××××××××××
अस्येशानस्य तल्लिङ्गं दृष्ट्वेच्छेत्यभवत्तदा।
स्नपयामि महल्लिङ्गं कलशैः शीतलैर्जलैः॥
चखान च त्रिशूलेन दक्षिणाशोपकण्ठतः।
कुण्डं प्रचण्डवेगेन रुद्रो रुद्रवपुर्धरः॥
पृथिव्यावरणाम्भांसि निष्क्रान्तानि तदा मुने।
भूप्रमाणाद्दशगुणैर्यैरियं वसुधावृता॥
तैर्जलैः स्नापयाञ्चक्रे त्वत्स्पृष्टैरन्यदेहिभिः।
तुषारैर्जाड्यविधुरैर्जञ्जपूकौघहारिभिः॥
सन्मनोभिरिवात्यच्छैरनच्छैर्व्योमवर्त्मवत्।
ज्योत्स्नावदुज्ज्वलच्छायैः पावनैः शम्भुनामवत्.
पीयूषवत्स्वादुतरैः सुखस्पर्शैर्गवाङ्गगवत्।
निष्पापधीवद्गम्भीरैस्तरलैः पापिशर्मवत्॥
विजिताब्जमहागन्धैः पाटलामोदमोदिभिः।
अदृष्टपूर्वलोकानां मनोनयनहारिभिः॥
××××××××××××
सहस्रधारैः कलशैः स ईशानो घटोद्भव।
सहस्रकृत्वः स्नपयामास संहृष्टमानसः॥
ततः प्रसन्नो भगवान्विश्वात्मा विश्वलोचनः।
तमुवाच तदेशानं रुद्रं रुद्रवपुर्धरम्॥
तव प्रसन्नोस्मीशान कर्मणानेन सुव्रत।
गुरुणानन्यपूर्वेण ममातिप्रीतिकारिणा॥
ततस्त्वं जटिलेशान वरं ब्रूहि तपोधन।
अदेयं न तवास्त्यद्य महोद्यमपरायण॥

ईशान उवाच
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि।
तदेतदतुलं तीर्थं तव नाम्नास्तु शङ्कर॥

विश्वेश्वर उवाच
त्रिलोक्यां यानि तीर्थानि भूर्भुवःस्वःस्थितान्यपि।
तेभ्योऽखिलेभ्यस्तीर्थेभ्यः शिवतीर्थमिदं परम्॥
शिवज्ञानमिति ब्रूयुः शिवशब्दार्थचिन्तकाः।
तच्च ज्ञानं द्रवीभूतमिह मे महिमोदयात्॥
अतो ज्ञानोद नामैतत्तीर्थं त्रैलोक्यविश्रुतम्।
अस्य दर्शनमात्रेण सर्वपापैः प्रमुच्यते॥
ज्ञानोदतीर्थसंस्पर्शादश्वमेधफलं लभेत्।
स्पर्शनाचमनाभ्याञ्च राजसूयाश्वमेधयोः॥
फल्गुतीर्थे नरः स्नात्वा सन्तर्प्य च पितामहान्।
यत्फलं समवाप्नोति तदत्र श्राद्धकर्मणा॥
गुरुपुष्यासिताष्टम्यां व्यतीपातो यदा भवेत्।
तदात्र श्राद्धकरणाद्गयाकोटिगुणं भवेत्॥
यत्फलं समवाप्नोति पितॄन्सन्तर्प्य पुष्करे।
तत्फलं कोटिगुणितं ज्ञानतीर्थे तिलोदकैः॥
सन्निहत्यां कुरुक्षेत्रे तमोग्रस्ते विवस्वति।
यत्फलं पिण्डदानेन तज्ज्ञानोदे दिने दिने॥
पिण्डनिर्वपणं येषां ज्ञानतीर्थे सुतैः कृतम्।
मोदन्ते शिवलोके ते यावदाभूतसम्प्लवम्॥
अष्टम्यां च चतुर्दश्यामुपवासी नरोत्तमः।
प्रातः स्नात्वाथ पीताम्भस्त्वन्तर्लिङ्गगमयो भवेत्॥
एकादश्यामुपोष्यात्र प्राश्नाति चुलुकत्रयम्।
हृदये तस्य जायन्ते त्रीणि लिङ्गान्यसंशयम्॥
ईशानतीर्थे यः स्नात्वा विशेषात्सोमवासरे।
सन्तर्प्य देवर्षि पितॄन्दत्त्वा दानं स्वशक्तितः॥
ततः समर्च्य श्रीलिङ्गं महासम्भारविस्तरैः।
अत्रापि दत्त्वा नानार्थान्कृतकृत्योभवेन्नरः॥
उपास्य संध्यां ज्ञानोदे यत्पापं काललोपजम्।
क्षणेन तदपाकृत्य ज्ञानवाञ्जायते द्विजः॥
शिवतीर्थमिदं प्रोक्तं ज्ञानतीर्थमिदं शुभम्।
तारकाख्यमिदं तीर्थं मोक्षतीर्थमिदं ध्रुवम्॥
स्मरणादपि पापौघो ज्ञानोदस्य क्षयेद्ध्रुवम्।
दर्शनात्स्पर्शनात्स्नानात्पानाद्धर्मादिसम्भवः॥
डाकिनीशाकिनीभूतप्रेतवेतालराक्षसाः।
ग्रहाः कूष्माण्डझोटिङ्गाः कालकर्णी शिशुग्रहाः।
ज्वरापस्मारविस्फोटद्वितीयकचतुर्थकाः।
सर्वे प्रशममायान्ति शिवतीर्थजलेक्षणात्॥
ज्ञानोदतीर्थपानीयैर्लिङ्गं यः स्नापयेत्सुधीः।
सर्वतीर्थोदकैस्तेन ध्रुवं संस्नापितं भवेत्॥
ज्ञानरूपोहमेवात्र द्रवमूर्तिं विधाय च।
जाड्यविध्वंसनं कुर्यां कुर्यां ज्ञानोपदेशनम्॥
इति दत्त्वा वराञ्छम्भुस्तत्रैवान्तरधीयत।
कृतकृत्यमिवात्मानं सोप्यमंस्तत्रिशूलभृत्॥
ईशानो जटिलो रुद्रस्तत्प्राश्य परमोदकम्।
अवाप्तवान्परं ज्ञानं येन निर्वृतिमाप्तवान्॥
(स्कन्दपुराण, काशीखण्ड, अध्याय – ३३, श्लोक – ०१-५२ के मध्य से)